एकात्मता मंत्र

यं वैदिका मन्त्रदृशः पुराणा
इन्द्रं यमं मातरिश्वानमाहुः।
वेदन्तिनोऽनिर्वचनियमेकं
यं ब्रह्मशब्देन विनिर्दिशन्ति ॥ १ ॥

शैवा यमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरितिस्तुवन्ति।
बुद्धस्तथाऽर्हन्निति बौद्धजैनाः
सत् श्री अकालेति च सिक्ख संतः ॥ २॥

शास्तेति केचित् प्रकृतीक कुमारः
स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थयन्ते जगदीशितारं
स एक एव प्रभुरद्वितीयः ॥ ३ ॥

Comments